________________ 488 ] [ काव्यषट्कं / / 77 // || 78 / / अभिधातुमध्यवससौ न गिरा _पुलकः प्रियं नववधूयंगदत् / / 76 / / उदितोरुसादमतिवेपथुमत् सुदृशोऽभिभर्तृ विधुरं त्रपया / वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् / / 77 / / परिमन्थराभिरलघुरुभरा दधिवेश्म पत्युरुपचारवियो / स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः मधुरोन्नतध्रु ललितं च दृशोः सकरप्रयोगचतुरं च वचः / प्रकृतिस्थमेव निपुणागमित स्फुटनृत्यलीलमभवत्सुतनोः तदयुक्तमङ्ग : तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् / प्रकटीकृता जगति येन खलु ___ स्फुटमिन्द्रताद्य मयि गोत्रभिदा // 80 / / न विभावयत्यनिशमक्षिगता मपि मां भवानतिसमीपतया / हृदयस्थितामपि पुनः परितः कथमोक्षते बहिरभीष्टतमाम् // 81 / / इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसददनाम् / स्वकरावलम्बनविमुक्तगलत् कलकाञ्चि काञ्चिदरुणत्तरुणः / / 2 / / // 79 //