________________ (4) शिशुपालवधम् :: नवमः सर्गः ] [ 481 अथ लक्ष्मणानुगुतकान्तवपुर्जलधि विलास शशिदाशरथिः। परिवारितः परित ऋक्षगणे- . स्तिमिसैघराक्षसकुलं बिभिदे // 31 / / उपजीवति स्म सततं दधतः परिमुग्धतां वरिणमिवोडुपतेः / घनबीथिवीथिमवतीर्णवतो. निधिरम्भसामुपचयाय कलाः // 32 / / रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् / अविलम्बितक्रममहो महता मितरेतरोपकृतिमच्चरितम् // 33 / / दिवसं भृशोष्णरुचितादहता रुदतीमिवानवरतालिरुतैः। मुहुरामृशन् मृगधरोऽप्रकरै . रुदशिश्वसत् कुमुदिनीवनिताम् // 34 // प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मधर्मपयसोपचिताम् / सुदृशोऽभिभर्तृ शशिरश्मिगल ___ जलबिन्दुमिन्दुमणिदारुवधूम् // 35 / / अमृतद्रवैर्विदधदब्जशामप - मार्गमोषधिपतिः स्म करैः / परितो विसपि परितापि भृशं . वपुषोऽवतारयति मानविषम् // 36 / / अमलात्मसु प्रतिफलन्नभितस् तरुणीकपोलकेषु मुहुः /