________________ 460 ] . [ काव्यषट्कं मधुसुरभिमुखाब्जगन्धलब्धे रधिकमधित्वदनेन मा निपाति // 41 / / सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः / ध्रुवममृतपनामवाञ्छयासा ___वधरममु मधुपस्तवाजिहीते / / 42 / / . इति वदति सखीजने निमीलद् द्विगुणितसान्द्रतराक्षिपक्ष्ममाला / अपतदलिभयेन भर्तुरङ्क भवति हि विक्लवता गुणोऽङ्गनानाम् / / 43 // मुखकमलकनुन्नमय्य यूना यवभिनवोढवधूर्बलादचुम्बि / तदपि न किल. बालपल्लवान ग्रहपरया विविदे विदग्धसख्या / / 44 / / 15 व्रततिविततिभिस्तिरोहितायां प्रतियुवतों वदनं प्रियःप्रियायाः। यदधयदधरावलोपनृत्यत्करवलस्वनितेन तद्विववे / / 45 / / विलसितमनुकुर्वती पुरस्ता दरणिरुहाधिरहो वधूलतायाः / रमणमृजुतया पुरः सखोना मकलितचापलदोषमालिलिङ्ग // 46 / / सललितमवलम्ब्य पाणिनांसे ___ सहचरमुच्छ्रितगुच्छवाञ्छयाऽन्या / . सकलकलभकुम्भविभ्रमाभ्या मुरसि रसादवतस्तरे स्तनाभ्याम् // 47 // 25 मृदुचरणतलाग्रदुःस्थितत्वा दसहतरा कुचकुम्भयोर्भरस्य /