________________ (4) शिशुपालवधम् :: सप्तमः सर्गः ] [ 456 व्यवहितमविजानती किलान्त__ णभुवि वल्लभमाभिमुख्यभाजम् / अधिविटपि सलीलमग्रपुष्प ग्रहणपदेन चिरं विलम्ब्य काचित् // 35 / / मथ किल कथिते सखीभिरत्र क्षणमपरेव ससम्भ्रमा भवन्ती / शिथिलितकुसुमाकुलाग्रपाणिः . प्रतिपदसंयमितांशुकावृताङ्गी // 36 // कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः / मनसिजगुरुतत्क्षणोपदिष्टं - किमपि रसेन रसान्तरं भजन्ती // 37 / / अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै / अहंरत सुतरामतोऽस्य चेतः ... स्फुटमभिभूषयति स्त्रियस्त्रपैव // 38 // किसलयशकलेष्ववाचनीयाः पुल किनि केवलमङ्गके निधेयाः / नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः / / 39 / / कृतकृतकरुषा सखीमपास्य / - त्वमकुशलेति कयाचिदात्मनैव / अभिमतमभि साभिलाषमाविष्कृत भुजमूलमबन्धि मूनि माला / / 40 / / अभिमुखमुपयाति मा स्म किंञ्चि त्वमभिदधाः पटले मधुव्रतानाम् / .