________________ 430 ] . [ काव्यषटकं ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य ... वाञ्छन्ति तामपि समाधिभृतो न रोद्धम् // 55 // मरकतमयमेदिनीषु भानो. स्तरुविटपान्तरपातिनो मयूखाः / प्रवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति स्फुरिताशुरेणुजालाः // 56 / / (पुष्पिताग्रा) या बिति कलवल्लकीगुण स्वानमानमतिकालिमाऽलया / नाम कान्तमुपगीतया तया स्वानमा नमति कालिमालया / / 57 / / , ( रथोद्धता ) सायं शशाङ्ककिरणाहतचन्द्रकान्त निस्यन्दिनीरनिकरेण कृताभिषेकाः / अर्कोपलोल्लसितवह्निभिह्नि तप्ता स्तीव्र महाव्रतमिवात्र चरन्ति वप्राः / / 58 / / एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः / वाल्मीकेररहितरामलक्ष्मणानां साधयं दधति गिरां महासरस्यः / / 56 / / इह मुहुर्मुदितैः कलभैः रवः प्रतिदिशं क्रियते कलभैरवः / स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः / / 60 / / त्वक्साररन्ध्रपरिपूरणलब्धगीति- . रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्ग।