________________ (4) शिशुपालवधम् :: चतुर्थः सर्गः ] [ 426 संलक्ष्यतें विवधरत्नकरानुविद्ध मूर्ध्वप्रसारितसुराधिपचापचारु / / 46 / / दधति च विकसद्विचित्रकल्प द्रुमकुसुमैरभिगुम्फितानिवैताः / क्षणमलघूविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य / / 50 / / (पुष्पिताग्रा) सवधकाः सुखिनोऽस्मिन्ननवरतममन्दरागतामरसदृशः / नासेवेन्ते रसवन्न नवरतममन्दरागतामरसदृशः / / 5 / / (आर्यागीतिः) आच्छाद्य पुष्पपटमेष महान्तमन्त रातिभिर्ग हकपोतशिरोधराभैः / स्वाङ्गानि धूमरुचिमागुरवीं दधान बूं पायतीव पटलैनवनीरदानाम् / / 52 / / अन्योन्यव्यतिकरचारुभिर्विचित्र रत्रस्यन्नवमणिजन्मभिर्मयूखैः / विस्मेरान्गगनसदःकरोत्यमुष्मिनाकाशे रचितमभित्तिचित्रकर्म / / 53 / / (प्रहर्षिणी) समीरशिशिरः शिरःसु वसतां सतां जवनिका निकामसुखिनाम् / विभति जनयन्नयं मुदमपायमपायधवला बलाहकततीः // 54 / / (जलोद्धन गतिः) 25 . मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः /