________________ (4) शिशुपालवधम् :: चतुर्थः सर्गः ] [ 427 विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् / भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः / / 36 / / (प्रमिताक्षरा) विद्वद्भिरागमपरैर्विवृतं कथञ्चि च्छ त्वापि दुर्घहमनिश्चितधीभिरन्यैः / श्रेयान् द्विजातिरिव हन्तुमघानि - दक्षं गूढार्थमेष निधिमन्त्रगणं बिति / 37 / / बिम्बोष्ठ बहु मनुते तुरङ्गवक्त्र श्चुम्बन्तं मुखमिह किन्नरं प्रियायाः / 10 श्लिष्यन्त मुहुरितरोऽपि तं निजस्त्री मुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् / / 38 / / यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् / न पुष्पितात्र स्थगितार्करश्मावनन्तताने कतमा लतालम् / 36 / दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः / अस्मिन् भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु / / 40 / / अनतिचिरोज्झितस्य जलदेन चिर स्थितबहुबुबुदस्य पयसोऽनुकृतिम् / विरलविकीर्णवज्रशकला सकलामिह विदधाति घौतकलधौतमही // 41 / / (कुररीरूता) वर्जयन्त्या जनैः सङ्गमेकान्तत.. स्तर्कयन्त्या सुखं सङ्गमे कान्ततः / 25 योषयैव स्मरासन्नतापाङ्गया / सेव्यतेऽनेकया सन्नतापाङ्गया // 42 / / (स्रग्विणी) 20