________________ 418 ] [ काव्यषटकं अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षत् // 52 // रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः / यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीयु वानः / / 53 / / सुगन्धितामप्रतियत्नपूर्वां ___ बिभ्रन्ति यत्र प्रमदाय पुंसाम् / मधूनि वक्त्राणि च कामिनीना मामोदकर्मव्यतिहारमीयुः / / 54 / / रतान्तरे यत्र गृहान्तरेषु वितदिनि' हविटङ्कनीडः / रुतानि शृण्वन् वयसां गणोऽन्ते वासित्वमाप स्फुटमङ्गनानाम् / / 55 / / छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु / आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि / / 56 / / यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः / जनरजातस्खलनैर्न जातु द्वयेऽप्यमुच्यन्त विलीनमार्गाः / / 57 / / परस्परस्पधिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः / 20 श्रीनिमितप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममाज / / 58 / / क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदेव / अध्यूषुषो यामभवञ्जनस्य याः . सम्पदस्ता मनसोऽप्यगम्याः // 59 / / कलादधानः सकलाः स्वभाभिरु द्भासयन्सौधसिताभिराशा /