________________ 416 ] [ काव्यषट्कं यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेव / वप्रेण पर्यन्तचरोडुचक्रं सुमेरुवप्रोऽन्वहमन्वकारि / / 37 / / वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः / लोलरलोलद्युतिभाजि मुष्णन् रत्नानि रत्नाकरतामवाप / 38 5 अम्भश्च्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः / यत्रातपे दातुमिवाधितल्पं विस्तारयामास तरङ्गहस्तैः / / 3 / / यच्छालमुत्तुगतया विजेतु दूरादुदस्थायत सागरस्य / / महोमिभिर्व्याहतवाञ्छिताएं वोडामिवाभ्यासगतैविलिल्ये / / 40 / / कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः / रसन्नरोदीद् भृशमम्बुवर्षव्याजेन, यस्या बहिरम्बुवाहः / / 41 / / यदङ्गनारूपसरूपतायाः कञ्चिद् गुणं भेदकमिच्छतीभिः / आराधितोऽद्धा मनुरप्सरोभि ___श्चक्रे प्रजाः स्वाः सनिमेषचिह्नः / / 42 / / स्फुरत्तुषारांशुमरीचिजालै विनिह्न ताः स्फाटिकसौधपङ्क्तीः / पारुह्य नार्यःक्षणादासु यत्र नभोगता देव्य इव व्यराजन् / / 43 / / 20 कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हHतलेषु यत्र / उच्चैरधःपातिपयोमुचोऽपि समूहमुहुः पयसां प्रणाल्यः / 44 / रतौ ह्रिया यत्र निशाम्य दीपा जालागताभ्योऽधिगृहं गहिण्यः / 25 बिभ्युविडालेक्षणभीषणाभ्यो वैदूर्यकुडयेषु शशिद्युतिभ्यः / / 45 / /