________________ (4) शिशुपालवधम् :: तृतीयः सर्गः | [ 413 तमङ्गदे मन्दरक्ट कोटिव्याघट्टनोत्तेजनया मणीनाम् / बहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती / / 6 / / निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिरश्मिच्छरितैर्नखाग्रैः / व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवामौ // 4 // 5 उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् / तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः / / 8 / / तेनाम्भसांसारमय : पयोधेर्दधे मणिर्दीधितिदीपिताशः / / अन्तर्वसन्बिम्बगतस्तदङ्ग साक्षादिवालक्ष्यत यत्र लोकः / / 1 / / मुक्तामयं सारसनावलम्बि भाति स्म दामाप्रपदीनमस्य / अङ्गुष्ठनिष्टय तमिवोर्ध्वमुच्चै स्त्रिस्रोतसः सन्ततधारमम्भः / / 10 / / स इन्द्रनीलस्थलनीलमूर्ती रराज क— रपिशङ्गवासा / विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः // 11 / / 15 प्रसाधितस्यास्य मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् / वपुष्य शेषेऽखिललोककान्ता सानन्यकान्ता ह्य रसीतरा तु / 12 / कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य / आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः / / 13 / / प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन / प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवरेनम् / 14 / ग्राकर्षतेवोर्ध्वमति क्रशीयानत्युन्नतत्वात्कुचमण्डलेन / ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् / यां यां प्रियः प्रेक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव / 25 निःशङ्कमन्याः सममाहितेव् स्तत्रान्तरे जघ्नुरमु कटाक्षैः / / 16 / / 20