________________ नाम 412 ] [ काव्यषट्कं य इहात्मविदो विपक्षमध्ये . .. सहसम्वृद्धियुजोऽपि भूभुजः स्युः / बलिपुष्टकुलादिवान्युपुष्टः .. पृथगस्मादचिरेण भाविता तैः / / 116 / / 5 सहजचापलदोषसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः / तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः / 117 / इति विशकलितार्थामौद्धवीं वाचमेना मनुगतनयमार्गामर्गलां दुर्नयस्य / जनितमुदमुस्थादुच्चकैरुच्छ्रितोर:. स्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः / 118 / // इति श्रीमाधकृतौ शिशुपालवधे महाकाव्ये श्रयङ्क मन्त्रवर्णनं नाम द्वितीयः सर्गः / / 2 / / // 3 // तृतीयः सर्गः / / ( उपजातिवृत्तम् ) 15 कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः / अपेतयुद्धाभिनिवेशसौम्यो हरिहरिप्रस्थमथ प्रतस्थे / / 1 / / जगत्पवित्रैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः / यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे / / 2 / / मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः / 20 भजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वा रुचमम्बुराशेः / / 3 / / चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः / अनेकधातुच्छरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि // 4 // तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा / अवाप वाल्योचितनीलकण्ठपिच्छानचूडाकलनामिवोरः / / 5 / /