________________ 404 ] [ काव्यषट्कं मम तावन्मतमिदं श्रूयतामङग बामपि / / ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि // 12 / / यावदर्थपदां वाचमेवमादाय माधवः / विरराम महीयांसः प्रकृत्या मितभाषिणः // 16 / / 5 ततः सपत्नापनयस्मरणानुशयस्फुरा / ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना // 18 / / विवक्षितामर्थविदस्लत्क्षण प्रतिसहृताम् / प्रापयन् पवनव्याधेगिरमुत्तरपक्षताम् / / 15 / / घूर्णयन् मदिरास्वादमदपाटलितद्युती। रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ / 16 / / पाश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् / म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलः / / 17 / / दधत्सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः / द्विषद्वेषोपरक्ताङ गसङिगनी: स्वेदविषः // 18 / / प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा। कृष्णोत्तरासङ गरुचं विदधच्चौतपल्लवीम् / / 16 / / ककुद्मिकन्यावक्त्रातर्वासलब्धाधिवासया।। मुखामोदं मदिरया कृतानुव्याधमुद्वमन् . / / 20 / / जगाद वदनच्छद्मपद्मपर्यन्तपातिनः / नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः / / 21 / / ( कुलकम् ) यद्वासुदेवेनादोनमनादीनवमीरितम् / वचसस्तस्य सपदि क्रिया केवलमुत्तरम् // 22 / / नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते / इन्धनौषधगप्यग्निस्त्विषा नात्येति पूषणम् // 23 / / 25 सक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः / सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे // 24 //