________________ 396 ] [ काव्यषट्कं इति ब्रुवन्तं तमवाच स व्रती / न वाच्यमित्थं पुरुषोत्तम ! त्वया / त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य गुरुयोगिनामपि // 31 / / उदीर्णरागप्रतिरोधकं जन रभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम् / उपेयुषो मोक्षपथं मनस्विन स्त्वमग्रभूमिनिरपायसंश्रया // 32 / / उपासितारं निगृहीतमानस हीतमध्यात्मदशा कथञ्चन / बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुष पुराविदः // 33 / / निवेशयामासिथ हेलयोद् धृतां फणामृतां छादनमेकमोकसः / जगत्त्रयकस्थपतिस्त्वमुच्चकै रहीश्वरस्तम्भशिरःसु. भूतलम् // 34 / / अनन्यगुर्वास्तव केन केवलः पुराणमूर्तमहिमावगम्यते / ' मनुष्यजन्मापि सुरासुरान्गुण भवान्भवच्छेदकरैः करोत्यधः // 35 / / लघूकरिष्यन्नतिभारभङ्ग राममू किल त्वं त्रिदिवादवातरः / उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया // 36 / / निजोजसोज्जासयितुं जगद् द्रुहामुपाजिहीथा न महीतलं यदि /