________________ (4) शिशुपालवधम् :: प्रथमः सर्गः ] [ 365 . विलोचने बिभ्रदधिश्रितश्रिणी सपुण्डरीकाक्ष इति स्फुटोऽभवत् // 24 // सितं सितिम्ना सुतरां मुनेर्वपु विसारिभिः सौधमिवाथ लम्भयन् / द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः / / 25 / / हरत्यघं संप्रति हेतुरेष्यतः शुभस्यः पूर्वाचरितैः कृतं शुभैः / शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् / / 26 / / जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तु समभावि भानुना / प्रसह्य तेजोभिरसंख्यतां गतै रदस्त्वया नुन्नमनुत्तमं तमः / / 27 / / कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना / सदोपयोगेऽपि - गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव // 28 / / विलोकनेनैव तवामुना मुने कृतः कृतार्थोऽस्मि निहितांहसा / तथापि शुश्रूषुरहं गरीयसी गिरोऽथवा श्रेयसि केन तृप्यते / / 26 / / गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तु व्यभसीयते यया। तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् / / 30 / / 25