________________ 392 ] [ काव्यषटकं दधानमम्भोरुहकेसरद्यती जटाः शरच्चन्द्रमरीचिरोचिषम् / विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव // 5 / / पिशङ्गमौञ्जयुजीमर्जुनच्छवि वसानमेणाजिनमञ्जनधुति / सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् / / 6 / / विहङ्गराजाङ्गरुहैरिवायतै- . हिरण्मयोर्वीरुहवल्लितन्तुभिः / कृतोपवीतं हिमशुभ्रमुच्चकै घनं घनान्ते तडितां गरिव / / 7 / / निसर्गचित्रोज्ज्वलसूक्ष्मपर्मणा __ लसद्दिसच्छेदसिताङ्गसङिना। चकासत चारुचमूरुचर्मणा / कुथेन नागेन्द्रमिवेन्द्रवाहनम् / / 8 / / अजस्रमास्फालितवल्लकीगुण क्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया। पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया / / 6 / / रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः। . स्फुटीभवद्ग्रामविशेषमूर्च्छ नामवेक्षमाणं महतीं मुहुर्मुहुः // 10 / / निवर्त्य सोऽनुव्रजतः कृतानती- . नतीन्द्रियज्ञाननिधिर्नभःसदः / 25