SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 388 ] [ काव्यषटकं 5 आत्मलाभपरिणामनिरोधैर्भूतसंघ इव न त्वमुपेतः / तेन सर्वभुवनातिग लोके नोपमानमसि नाप्युपमेयः / / 34 / / त्वमन्तक: स्थावरजङ्गमानां त्वया जगत्प्राणिति देव विश्वम् / त्वं योगिनां हेतुफले रुणसि त्वं कारणं कारणकारणानाम् // 35 // रक्षोभिः सुरमनुदितेः सुतैर्वा यल्लोकेष्वविकलमाप्तमाधिपत्यम् / पाविन्याः शरणगतातिहारिणे तन्माहात्म्यं भव भवते नमस्क्रियायाः // 36 / / तरसा भुवनानि यो बिति ध्वनति ब्रह्म यतः परं पवित्रम् / परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते / / 37 / / 15 भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् / दहते भवबीजसंतति शिखिनेऽनेकशिखाय ते नमः / / 38 / / आबाधामरणभयाचिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन / निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय // 36 / / यः सर्वेषामावरीता वरीयान् सर्वैर्भाव वृतोऽनादिनिष्ठः / मार्गातीतायेन्द्रियाणां नमस्ते- . ऽविज्ञेयाय व्योरूपाय तस्मै // 40 // 25 प्रणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy