________________ (3) किरातार्जुनीयम् :: सप्तदशः सर्गः ] [ 377 उमापति पाण्डुसुतप्रणुन्नाः . शिलीमुखा न व्यथयांबभूवुः / अभ्युत्थितस्याद्रिपतेनितम्ब मर्कस्य पादा इव हैमनस्य // 12 // संप्रीयमाणोऽनुबभूव तीव्र पराक्रमं तस्य पतिगणानाम् / विषाणभेदं हिमवानसहय वप्रानतस्येव सुरद्विपस्य // 13 / / तस्मै हि भारोद्धरणे समर्थ प्रदास्यता बाहुमिव प्रतापम् / चिरं विषेहेऽभिभवस्तदानीं स कारणानामपि कारणेन // 14 / / प्रत्याहतौजाः कृतसत्त्ववेगः . पराक्रमं ज्यायसि यस्तनोति / तेजांसि भानोरिव निष्पतन्ति ___ यशांसि वीर्यज्वलितानि तस्य // 15 // दृष्टावदानाद्वयथतेऽरिलोकः प्रध्वंसमेति व्यथिताच तेजः / तेजोविहीनं विजहाति दर्पः शान्ताचिष दीपमिव प्रकाशः / / 16 / / ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः / गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः // 17 / / एवं प्रतिद्वन्द्विषु तस्य कीर्ति मौलीन्दुलेखाविशदां विधास्यन् / 25