________________ (3) किरातार्जुनीयम् :: सप्तदशः सर्गः ] [ 375 अस्त्रेषु भूतपतिनापहृतेषु जिष्णु- वषिष्यतादिनकृतेव जलेषु लोकः / / 64 / / / / इति भारविकृतौ महाकाव्ये किरातार्जुनीये षोडशः सर्गः / / 16 / / 5 10 // 17 // सप्तदशः सर्गः / / अथापदामुद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेष / धृति गुरुश्रीगुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन / / 1 / / भूरिप्रभावेण रणाभियोगा ___ प्रीतो विजिह्मश्च तदीयवृद्धया। स्पष्टोऽप्यविस्पष्टवपुः प्रकाशः ___सर्पन्महाधूम इवाद्रिवह्निः // 2 // तेजः समाश्रित्य परैरहार्य . निजं महान्मित्रमिवोरुधैर्यम् / प्रासादयन्नस्खलितस्वभावं भीमे भुजालम्बमिवारिदुर्गे // 3 / / वंशोचितत्वादभिमानवत्या ___संप्रात्पया संप्रियतामसुभ्यः / समक्षमादित्सितया परेण . वध्वेव कीर्त्या परितप्यमानः // 4 // पति नगानामिव बद्धमूल मुन्मूलयिष्यंस्तरसा विपक्षम् /