________________ 5 (3) किरातार्जुनीयम् :: षोडशः सर्गः ] [ 365 विकाशमीयुर्जगतीशमार्गणा विकाशमीयुर्जगतीशमार्गणाः / विकाशमीयुर्जगतीशमार्गरणा विकाशमीयुजंगतीशमार्गणाः // 52 / / (महायमकम् / ) संपश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् / प्रङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां ___ रोमाञ्चञ्चिततरं बिभरांबभूवुः / / 53 / / 10 // इति भारविकृतो महाकाव्ये किरातार्जुनीये पञ्चदशः सर्गः // 15 // . // 16 // षोडशः सर्गः॥ ततः किराताधिपतेरलध्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः / स तर्कयामास विविक्ततर्कविरं विचिन्वन्निति कारणानि / / 15 मदन तिश्यामितगण्डलेखाः कामन्ति विक्रान्तनराधिरूढाः / सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छायमिवाक्षिपन्त / 2 / विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा / महारथौधेन न संनिरुद्धा पयोदमन्द्रध्वनिना धरित्री / / 3 / / समुल्लसत्प्रासमहोमिमालं परिस्फुरच्चामरफेनपङ्क्ति / 20 विभिन्नमर्यादमिहातनोति नाश्वीयमाशा जलधेरिवाम्भः / / हताहतेत्युद्धतभीष्मघोषः समुज्झिता योद्धृभिरभ्यमित्रम् / न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति // 5 //