________________ 338 ] [ काव्यषट्कं पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः / / 45 / / न विरोधिनी रुषमियाय पथि मृगविहङ्गसंहतिः। घ्नन्ति सहजमपि-भूरिभियः सममागताः सपदि वैरमापदः // 46 / / चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते। वंशविततिषु विषक्तपृथु प्रियबालवालधिभिराददे धृतिः / / 47 / / हरसैनिकाः प्रतिभयेऽपि ____ गजमदसुगन्धिकेसरैः। स्वस्थमभिदशिरे सहसा प्रतिबोधम्भितमुखैमृगाधिपः // 48 / / बिभरांबभूवुरपवृत्त जठरशफरीकुलाकुलाः। पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः / / 46 / / महिषक्षतागुरुतमाल नलदसुरभिः सदागतिः / व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्ववौ वनसदां परिश्रमम् / / 50 / / मथिताम्भसो रयविकीर्ण मृदितकदलीगवेधुकाः। क्लान्तजलरुहलताः सरसी विदधे निदाघ इव सत्त्वसप्लवः / / 51 / /