SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 326 ] [ काव्यषट्क गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना / / अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः // 6 / / जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः / चकाराकान्तलक्ष्मीक: ससाध्वसमिवाश्रमम् // 7 // 5 अभितस्तं पृथासूनुः स्नेहेन परितस्तरे / अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः / / 8 / / आतिथेयीमथासाद्य सुतादपचिति हरिः / विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् / / 6 / / त्वया साधु समारम्भि नवे वयसि यत्तपः / 10 ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः / / 10 / / श्रेयसीं तव संप्राप्ता गुणसपदमाकृतिः / सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् / / 11 / / शरदम्बुधरच्छायागत्वर्यो यौवनश्रियः / / आपातरम्या विषयाः पर्यन्तपरितापिनः // 12 / / 15 अन्तकः पर्यवस्थाता जन्मिनः संततापदः / इति त्याज्ये भवे भव्यो मुक्तावृत्तिष्ठते जनः / / 13 / / चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता। विरुद्धः केवलं वेषः संदेहयति मे मनः // 14 / / युयुत्सुनेव कवचं किमामुक्तमिदं त्वया / / 20 तपस्विनो हि वसते केवलाजिनवल्कले // 15 / / प्रपित्सोः किं च ते मुक्ति निःस्पृहस्य कलेवरे / महेषुधो धनुर्भीमं भूतानामनभिद्रुहः // 16 / / भयंकरः प्राणभृतां मृत्योर्भुज इवापरः / / असिस्तव तपःस्थस्य न समर्थयते .शमम् / / 17 / / 25 जयमत्रभवान्नूनमरातिष्वभिलाषुकः / क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः / / 18 / /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy