________________ (3) किरातार्जुनीयम् :: एकादशमः सर्गः ] [325 भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः / अधिकविततलोचनं वधूनामयुगपदुन्नमितभ्रु वीक्षितं च / 61 / रुचिकरमपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे / ज्वलयति महतां मनांस्यमर्षे :. न हि लभतेऽवसरं सुखाभिलाषः / / 62 / / स्वयं संराध्यैवं शतमखमखण्डेन तपसा. परोच्छित्त्या लभ्यामभिलषति लक्ष्मी हरिसुते / मनोभिः सोवेगैः प्रणयविहतिध्वस्तरुचयः सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः // 63 / / / / इति भारविकृतौ महाकाव्ये किराता जुनीये दशमः सर्गः // 10 // 10 // 11 // एकादशः सर्गः // अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया / 15 आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः // 1 // मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः / द्राधीयसा वयोतीतः परिक्लान्तः किलाध्वना // 2 // जटानां कीर्णया केशैः संहत्या परितः सितैः / पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया / / 3 / / 20 विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः / / प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः // 4 / / आसक्तभरनीकाशैरङ्गैः परिकृशैरपि / आद्यूनः सद्गृहिण्येव प्रायो यष्टयावलम्बितः // 5 //