SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 318 ] [ काव्यषट्कं ऋतुरिव तरुवीरुधा समृद्धया __युवतिजनैर्जगृहे मुनिप्रभावः // 8 // मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः / बहुमतिमधिकां ययावशोकः परिजनतापि गुणाय सद्गुणानाम् / / 6 / / यमनियमकृशीकृतस्थिराङ्ग परिददृशो विधृतायुधः स ताभिः / अनुपमशमदीप्ततागरीयान् कृतपदपंक्तिरथर्वणेव वेदः / / 10 / / शशधर इव लोचनाभिराम गगनविसारिभिरंशुभिः परीतः / शिखरनिचयमेकसानुसद्मा सकलमिवापि दधन्महीधरस्य / / 11 / / सुरसरिति परं तपोऽधिगच्छन् विधृतपिशङ्गबृहज्जटाकलापः / हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः / / 12 / / सदृशमतनुमाकृतेः प्रयत्नं तदनु गुणामपरैः क्रियामलङ्घयाम् / दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् // 13 / / चिरनियमकृशोऽपि शैलसारः __ शमनिरतोऽपि दुरासदः प्रकृत्या / ससचिव इव निर्जनेऽपि तिष्ठ न्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः // 14 / / तनुमवजितलोकसारधाम्नी त्रिभुवनगुप्तिसहां विलोकयन्त्यः /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy