________________ (3) किरातार्जुनीयम् :: नवमः सर्गः ] क्षीणयावकरसोऽप्यतिपानः कान्तदन्तपदसंभृतशोभः / प्राययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः // 62 / / रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु / सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेष मदश्रीः // 63 / / 5 बद्धकोपविकृतीरपि रामाश्चारुताभिमततामुपनिन्ये / वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः / 64 / वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि / योषितां विदधती गुणपक्षे निर्ममा मदिरा वचनीयम् / 65 / भर्तृ षपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम् / 10 वीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु / / 66 / / रुन्धती नयनवाक्य विकासं सादितोभयकरा परिरम्भे / वीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह // 67 // योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम् / कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् / / 68 // आहिते नु मधुना मधुना मधुरत्वे / ___ चेष्टितस्य गमिते नु विकासम् / आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः / / / / 66 / / मा गमन्मदविमूढधियो न: .20 प्रोज्य रन्तुमिति शङ्कितनाथा: / योषितो न मदिरा भृशमीषुः, - प्रेम पश्यति भयान्यपदेऽपि / / 70 / / चित्तनिर्वृतिविधायि विविक्तं ____मन्मथो मधुमदः शशिभासः / 25. संगमश्च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् // 71 / /