________________ 312 ] [ काव्यषट्कं सेहिरे न किरणा हिमरश्मे __ दुखिते मनसि सर्वमसह्यम् / / 30 // गन्धमुद्धतरजः कणवाही विक्षिपन्विकसतां कुमुदानाम् / आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः / / 31 / / संविधातुमभिषेकमुदासे ____ मन्मथस्य लसदंशुजलौघः / यामिनीवनितया ततचिह्नः ___ सोत्पलो रजतकुम्भ इवेन्दुः / / 32 / / प्रोजसापि खलु नूनमनूनं ___ नासहायमुपयाति जयश्रीः / यद्विभुः शशिमयूखसखः स नाददे विजयि चापमनङ्गः / / 33 / / 15 सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् / सनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीपे // 34 / / न स्रजो रुरुचिरे रमणीभ्य श्चन्दनानि विरहे मदिरा वा / साधनेषु हि रतेरुपधत्ते रम्यतां प्रियसमागम एव / / 35 / / प्रस्थिताभिरधिनाथनिवासं ____ध्वंसितप्रियसखीवचनाभिः / मानिनीभिरपहस्तितधैर्यः सादयन्नपि मदोऽवललम्बे / / 36 / / कान्तवेश्म बहु सन्दिशतीभि- . र्यातमेव रतये रमणीभिः / 25