________________ (3) किरातार्जुनीयम् :: नवमः सर्गः ] [ 311 पा हेमकुम्भ इव पूर्वपयोधे रुन्ममज्ज शनकैस्तुहिनांशुः // 23 // उद्गतेन्दुमविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः / व्यंशुकस्फुटमुखोमतिजिह्मां वीडया नववधूमिव लोकः / / 24 / / न प्रसादमुचितं गमिता द्यौ नॊद्धृतं तिमिरमद्रिवनेभ्यः / दिङ्मुखेषु न च धाम विकीर्ण ____ भूषितैव रजनी हिमभासा // 25 / / मानिनीजनविलोचनपाता नुष्णबाष्पकलुषान् प्रतिगृह्णन् / मन्दमन्दमुदितः प्रययौ खं भीतभीत इव. शीतमयूखः / / 26 / / श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः / उद्वमन्नभिरराज समन्ता दङ्गराग इव लोहितरागः // 27 / / प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि / 20 क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि / / 28 // शारतां गमितया शशिपादै श्छायया विटपिनां प्रतिपेदे / न्यस्तशुक्लबलिचित्रतलाभि स्तुल्यता वसतिवेश्ममहीभिः // 26 // 25 . आतपे धृतिमता सह वध्वा / यामिनीविरहिणा विहगेन /