________________ 308 ] [ काव्यषट्कं द्यौरुवाह परिवृत्तिविलोलां . हारयष्टिमिव वासरलक्ष्मीम् / / 2 / / अंसुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा। क्षीबतामिव गत: क्षितिमेष्य ल्लोहितं वपुरुवाह पतङ्गः / / 3 / / गम्यतामुपगते नयनानां लोहितायति सहस्रमरीचौ / आससाद विरहय्य धरित्री चक्रवाकहृदयान्यभितापः / / 4 / / मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि संभृतसान्द्रः / सामिमज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः / / 5 / / कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलमभित्वरयन्त्यः / सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः // 6 / / अग्रसानुषु नितान्तपिशङ्ग भूरुहान्मृदुकरैरवलम्ब्य / अस्तशैलगहनं नु विवस्वा नाविवेश जलधि नु महीं नु / / 7 / / आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः / आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः / / 8 / / आस्थितः स्थगितवारिदपङ्क्तया संध्यया गगनपश्चिमभागः / सोमिविद्रुमवितानविभासा . . रञ्जितस्य जलधेः श्रियमूहे / / 6 / /