________________ 306 ] [ काव्यषटकं ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहै / / 47 / / करौ धुनाना नवपल्लवाकृती पयस्यगावे किल जातसंभ्रमा। सखीषु निर्वाच्यमधाष्टर्य दूषितं प्रियाङ्गसंश्लेषमवाप मानिनी / / 48 / / प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः / सविभ्रमाधूतकराग्रपल्लवो __ यथार्थतामाप विलासिनीजनः / / 46 / / उदस्य धैर्य दयितेन सादरं प्रसादितायाः करवारिवारितम् / .. मुखं निमीलनयनं नतभ्रवः श्रियं सपत्नीवदनादिवाददे / / 50 / / विहस्य पाणी विधृते घृताम्भसि प्रियेण वध्वा मदनाचेतसः / सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धमंशुकम् // 51 / / निरञ्जने साचिविलोकितं दृशा वयावकं वेपथुरोष्ठपल्लवम् / नतभ्रुवो मण्डयति स्म विग्रहे * वलिक्रिया चातिलकं तदास्पदम् // 52 / / निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः / 25 निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे / / 53 //