________________ (3) किरातार्जुनीयम् :: अष्ठमः सर्गः ] [ 305 तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः / यथा जलाो नखमण्डनश्रिया ददाहदृष्टीश्च विपक्षयोषिताम् / / 41 / / शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु / नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु // 42 // ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधोरमुज्झति / मुहुः स्तनस्तालसमं समाददे ___ मनोरम नृत्यमिव प्रवेपितम् / / 43 / / श्रिया हसद्भिः कमलानि सस्मितै रलंकृताम्बुः प्रतिमागतैमुखैः / कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्नवी / / 44 / / परिस्फुरन्मीनविघट्टितोरवः __ सुराङ्गनास्त्रासविलोलदृष्टयः / उपाययुः कम्पितपाणिपल्लवा: / सखीजनस्यापि विलोकनीयताम् / / 45 / / भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी / अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः // 46 / / तिरोहितान्तानि नितान्तमाकुलै रपां विगाहादलकैः प्रसारिभिः / 25