________________ (3) किरातार्जुनीयम् :: सप्तमः सर्गः ] [ 267 पाक्षिप्तद्रुमगहना युगान्तवातः पर्यस्ता गिरय इव द्विपा विरेजुः / / 30 / / प्रस्थानश्रमजनितां विहाय निद्रामामुक्ते गजपतिना सदानपके / शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतमिव शृङ्खलं चकाशे // 31 // आयस्त: सुरसरिदोघरुद्धवर्मा सम्प्राप्तुं वनगजदानगन्धि रोधः / मूर्धानं निहितशिताकुशं विधुन्वन् यन्तारं न विगणयाञ्चकारं नागः // 32 // मारोढुः समवनतस्य पीतशेषे साशकं पयसि समीरिते करेण / संमार्जन्नरुणमदस्र ती कपोलो ___ सस्यन्दे मद इव शीकरः करेणोः / / 33 / / आघ्राय क्षणमतितृष्यताऽपि रोषादुत्तीरं निहितविवृत्तलोचनेन / सम्पुक्तं वनकरिणी मदाम्बुसेकै चिमे हिममपि वारि वारणेन // 34 / / प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा / किजल्कव्यवहितताम्रदानलेखै रुत्तेरुः सरसिजगन्धिभिः कपोलैः / / 35 / / पाकीणं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु / मातङ्गोन्मथितसरोजरेणुपिङ्गं - माजिष्ठं वसनमिवाम्बु निर्बभासे / / 36 / / 25