SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 266 ] [ काव्यषट्कं आसन्नद्विपपदवीमदानिलाय. क्रुध्यन्तो धियमवमत्य धूर्गतानाम् / सव्याजं निजकरिणीभिरात्तचित्ताः __प्रस्थानं सुरकरिणः कथञ्चिदीषुः / / 24 / / नीरन्ध्र पथिषु रजो रथाङ्गनुन्न / पर्यस्यन्नवसंलिलारुणं वहन्ती। आतेने वनगहनानि वाहिनी सा ___घर्मान्तक्षुभितजलेव जह्न कन्या // 25 / / सम्भोगक्षमगहनामथोपगङ्गं - बिभ्राणां ज्वलितमणीनि सैकतानि / अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् / / 26 / / भूभ तुः समधिकमादधे तंदोाः श्रीमत्तां हरिसखवाहिनीनिवेशः / संसक्तौ किमसुलभं महोदयाना मुछायं नयति यहच्छयापि योगः / / 27 / / सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् / साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषाम् / / 28 / / क्लान्तोऽपि त्रिदशवधूजनः पुरस्ता ल्लीनाहिश्वसितविलोलपल्लवानाम् / सेव्यानां हतविनयरिवावृतानां सम्पर्क परिहरति स्म .चन्दनानाम् / / 29 / / उत्सृष्टध्वजकुथकङ्कटा धरित्री- . मानीता विदितनये. श्रमं विनेतुम् /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy