________________ [ 285 (3) किरातार्जुनीयम् :: षष्ठः सर्गः ] // 6 // षष्ठः सर्गः॥ रुचिराकृतिः कनकसानुमथो परमः पुमानिव पति पतताम् / धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः // 1 // तमनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः / पवनेरिताकुलविजिह्मशिखा ____जगतीरुहोऽवचकरुः कुसुमैः / / / 2 / / अवधूतपङ्कजपरागकणा स्तनुजाह्नवीसलिलवीचिभिदः / परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः // 3 / / उदितोपलस्खलनसंवलिताः स्फुटहंसंसारसविरावयुजः / मुदमस्य माङ्गलिकतूर्यकृतां _ध्वनयः प्रतेनुरनुवप्रमपाम् // 4 / / अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् / स ददर्श वेतसवनाचरितां प्रणति बलीयसि समृद्धिकरीम् / / 5 / / प्रबभूव नालमवलोकयितु ___परितः सरोजरजसारुणितम् / सरिदुत्तरीयमिव संहतिमत्स तरङ्गरङ्गि कलहंसकुलम् / / 6 / / 25