________________ 282 ] [ काव्यषटकं व्यधत्त यस्मिन्पुरमुच्चगोपुरं. पुरा विजेतुधूतये धनाधिपः / स एव कैलास उपान्तसपिणः करोत्यकालास्तमयं विवस्वतः / / 35 / / नानारत्नज्योतिषां सन्निपातै ___श्छन्नेष्वन्तःसानु वप्रान्तरेषु / बद्धांबद्धां भित्तिशङ्काममुष्मि नावानावान्मातरिश्वा निहन्ति / / 36 / / रम्या नवद्युतिरपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि / अस्मिन्विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि // 37 / / परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः / इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः / / 38 / / उत्फुल्लस्थलनलिनीवनादमुष्मा दुद्भूतः सरसिजसम्भवः परागः / वात्याभिवियति विवर्तितः समन्ता दाधत्ते कनकमयातपत्रलक्ष्मीम् // 36 / / इह सनियमयोः सुरापगाया मुषसि सयावकसव्यपादरेखा / कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु // 40 / / समूर्च्छतां रजतभित्तिमयूखजाल- . रालोलपादपलतान्तरनिर्गतानाम् /