________________ 252 } [ काव्यषट्कं सदाऽनुकूलेषु हि कुर्वते रति ___नपेष्वमात्येषु च सर्वसंपदः // 5 / / निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः / तवानुभावोऽयमवेदि यन्मया निगुढतत्त्वं नयवर्त्म विद्विषाम् / / 6 / / विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः / दुरोदरच्छद्मजितां समीहते _____ नयेन जेतु जगतीं सुयोधनः / / 7 / / तथाऽपि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः / समुन्नयन्भूतिमनार्यसङ्गमाद् वरं विरोधोऽपि समं महात्मभिः / / 8 / / कृतारिषड्वर्गजयेन मानवी मगम्यरूपां पदवी प्रपित्सुना / विभज्य नक्तंदिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् / / 6 / / सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः / स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् / / 10 / / असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया / गुणानुरागादिव सख्य मीयिवान् . न बाधतेऽस्य त्रिगणःपरस्परम् // 11 / / 25