________________ (2) कुमारसंभव :: चतुर्दशः सर्गः ] [ 227 . चकाशिरे स्वर्णमया महाध्वजाः . परिस्फुरन्तस्तडितां गणा इव / / 36 / / विलोक्य धूलीपटलैभृशं भृतं __ द्यावापृथिव्योरलमन्तरं महत् / किमूर्ध्वतोऽधः किमधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतयंत / / 37 / / नोवं न चाधो न पुरो न पृष्ठतो ___ न पार्श्वतोऽभूत्खलु चक्षुषोर्गतिः / सूच्यग्रभेद्यः पृतनारजश्चय राच्छादिता प्राणिगणस्य सर्वतः / / 38 // दिगन्तदन्त्यावलिदानहारिभि विमानरन्ध्रप्रतिनादमेदुरैः / अनेकवाद्यध्वनितैरनारत जंग गाढं गुरुभिर्नभस्तलम् / / 36 / / भुवं विगाह्य प्रययौ महाचमूः क्वचिन्न मान्ती महती दिवं खलु / सुसंकुलायामपि तत्र निर्भरा किकांदिशीकत्वमवाप.नाकुला / / 40 // उद्दामदानद्विपवृन्दबृहितै नितान्तमुत्तुङ्गतुरंगहेषितैः / चलद्धनस्यन्दननेमिनिस्वन रभूनिरुच्छ्वासमिवाकुलं जगत् / / 41 / / महागजानां गुरुभिस्तु गजितै विलोलघण्टारणितै रणोल्बणैः / वीरप्रणादैः प्रमदप्रमेदुरै चालतामादधिरेतरां दिशः / / 42 / / P