________________ 226 ] [ काव्यषट्कं विलोकिताः कौतुकिनामरावती ___जनेन जुष्टप्रमदेन दूरतः सुराचलप्रान्तभुवः प्रपेदिरे ___सुविस्तृतायाः प्रसरं सुसैनिकाः // 30 // पीतासितारक्तसितैः सुराचल प्रान्तस्थितैर्धातुरजोभिरम्बरम् / अयत्नगन्धर्व'रोदयभ्रमं बंभार भूम्नोत्पतितरितस्ततः / / 31 // महास्वनः सैन्यविमर्दसंभवः ___ कर्णान्तकूलंकषतामुपेयिवान् / पयोनिधेः क्षुब्धतरस्य वर्धनो बभूव भूम्ना भवनोदरंभरिः / / 32 महागजानां गुरुबृहितैस्तेतैः सुहेषितैर्घोरतरैश्च वाजिनाम् / घनै रथानां गुरुचण्डचीत्कृत स्तिरोहितोऽभूत्पटहस्य निःस्वनः / / 33 / / महासुराणामवरोधयोषितां ___ कचाक्षिपक्ष्मस्तनमण्डलेषु च / ध्वजेषु नागेषु रथेषु वाजिषु क्षणेन तस्थौ सुरसैन्यजं रजः / / 34 / / घनैविलोक्य स्थगितार्कमण्डलै श्चमूरजोभिनिचितं नभःस्थलम् / अयायि हंसरभि मानसं धन भ्रमेण सानन्दमनति केकिभिः / / 35 // सान्द्रैः सुरानीकरजोभिरम्बरे नवाम्बुदानीकनि भैरभिश्रिते। 25