________________ 222 ] [ काव्यषट्कं // 14 // चतुर्दशः सर्गः // रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तैस्त्रिदशैजिगीषुणा / महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तु समनह्यत द्रुतम् / 1 / स दुनिवारं मनसोऽतिवेगिनं | ____जयश्रियः संनयनं सुदुःसहम् / विजित्वरं नाम तदा महारथं धनुर्धरः शक्तिघरोऽध्यरोहयत् / / 2 / / सुरालयश्रीविपदां निवारण सुरारिसंपत्परितापकारणम् / केनापि दधेऽस्य विरोधिदारणं सुचारु चामीकरधर्मवारणम् / / 3 / / . शरच्चरच्चन्द्रमरीचिपाण्डुरैः स / वीज्यमानो वरचारुचामरैः / पुरःसरैः किंनरसिद्धचारणै __ रणेच्छुरस्तूयत वाग्भिरुल्बणैः / / 4 / / प्रयाणकालोचितचारुवेषभृद्व वहन्पर्वतपक्षदारणम् / ऐरावतं स्फाटिकशैलसोदरं ततोऽधिरुह्य धुपतिस्तमन्वगात् / 5 / तमन्वगच्छद्गिरिशङ्गसोदरं मदोद्धतं मेषमधिष्ठितः शिखी। विरोधिविद्वेषरुषाधिकं ज्वलन्महोमहीयस्तरमायुधं दधत् / / 6 / / 20 अथेन्द्रनीलाचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम् / अधिष्ठितः कासरमुद्धरं मुदा वैवस्वतो दण्डधरस्तमन्वगात् / 7 / मदोद्धतं प्रेतमथाधिरूढवांस्तमन्धकद्वेषितनूजमन्वगात् / महासुरद्वेषविशेषभीषणः सुरोषणश्चण्डरणाय नैऋतः / / 8 / / ___ नवोद्यदम्भोधरदर्शने युद्धाय रूढो मकरे महत्तरें / 4 // 25