________________ (2) कुमारसंभवं :: त्रयोदशः सर्गः ] [ 221 स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् / मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवशैलसुतातनूजः / 45 / स कश्यपः सा जननी सुराणां तमेधयामासतुराशिषा द्वौ / तया यया नैकजगज्जिगीषु जेता मृधे तारकमुग्रवीर्यम् / 46 / . 5 स्वदर्शनार्थं समुपेयुषीणां सुदेवतानामदितिश्रितानाम् / पादौ ववन्दे पतिदेवतास्तमाशीर्वचोभिः पुनरभ्यनन्दन् / 47 / पुलोमपुत्री विबुधाधिभर्तुस्ततः शची नाम कलत्रमेषः / नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा समुपाचरच्च // 48 / / अथादितीन्द्रप्रमदाः समेतास्ता मातरः सप्त धनप्रमोदाः / 10 उपेत्य भक्त्या नमते महेशपुत्राय तस्मै ददुराशिषः प्राक् / 46 / समेत्य सर्वेऽपि मुदं दधाना महेन्द्रमुख्यास्त्रिदिवौकसोऽथ / आनन्दकल्लोलितमानसं तं समभ्यषिञ्चन्पृतनाधिपत्ये // 50 // सकलविबुधलोकः स्रस्तनिःशेषशोकः कृतरिपुविजयाशः प्राप्तयुद्धावकाशः / 15 अजनि हरसुतेनानन्तवीर्येण तेनाखिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् / / 51 / / (मालिनी) // इति श्री कालिदासकृतौ कुमारसंभवे महाकाव्ये कुमारसैनापत्याभिषेको नाम त्रयोदशः सर्गः / / 13 / /