________________ 170 ] [ काव्यषट्कं अमङ्गलाभ्यासरति विचिन्त्य तं तवानुवृत्ति न च कर्तु मुत्सहे. / / 65 / / अवस्तुनिबन्धपरे कथं नु ते / करोऽयमामुक्तविवाहकौतुकः / करेण शंभोलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् / / 66 / / त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः / वधूदुकूलं कलहंसलक्षणं गजा जिनं शोणितबिन्दुवर्षि च // 67 // चतुष्कपुष्पप्रकरावकीर्णयोः .... परोऽपि को नाम तवानुमन्यते / अलक्तकाङ्कानि पदानि पादयो विकीर्णकेशासु परेतभूमिषु // 68 / / अयुक्तरूपं किमतः परं वद. त्रिनेत्रवक्षः सुलभं तवापि यत् / स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति // 66 // इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया / / विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति / / 70 // द्वयं गतं संप्रति शोचनीयतां __समागमप्रार्थनया पिनाकिनः / कला च सा कान्तिमती कलावत स्त्वमस्य लोकस्य च नेत्रकौमुदी / / 71 / / 15