________________ (2) कुमारसंभवं :: पञ्चमः सर्गः ) / 169 यदा च तस्याभिगमे जगत्पते. रपश्यदन्यं न विधि विचिन्वती / तदा सहास्माभिरनुज्ञया गुरो रियं प्रपन्ना तपसे तपोवनम् / / 56 / / द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिष दृष्टमेष्वपि / न च प्ररोहाभिमुखोऽपि दृश्यते : ____ मनोरथोऽस्याः शशिमौलिसंश्रयः / / 60 / / न वेद्मि स प्रार्थितदुर्लभः कदा. . ___ सखीभिरस्रोत्तरमीक्षितामिमाम् / तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् // 61 / / अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया। अयीदमेवं परिहास इत्युमा मपृच्छदव्यजितहर्षलक्षणः // 62 // अथाग्रहस्ते मुकुलीकृताङ्गुलौ . समर्पयन्ती स्फटिकाक्षमालिकाम् / कथंचिदनेस्तनया मिताक्षरं - चिरव्यवस्थापितवागभाषत / / 63 / / . . यथा श्रुतं वेदविदांवर ! त्वया ____ जनोऽयमुच्चैःपदलङ्घनोत्सुकः / तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते / / 64 / / अथाह वर्णी विदितो. महेश्वर स्तदथिनी त्वं पुनरेव वर्तसे / 25