________________ (2) कुमारसभव :: पञ्चमः सर्गः ] [ 167 निवेदितं.निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते / " न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभ: कथम् / / 46 / / अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते / उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः / / 47 // मुनिव्रतस्त्वामतिमात्रकशितां _ दिवाकराप्लुष्टविभूषणास्पदाम् / शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते / / 4 / / अवैमि सौभाग्यमदेन वञ्चितं ___ तव प्रियं यश्चतुरावलोकिनः / 15 करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः // 46 // कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः / तदर्धभागेन लभस्व काङ्कितं वरं तमिच्छामि च साधु वेदितुम् / / 50 / / इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् / प्रथो वयस्यां परिपार्श्ववर्तिनी विवर्तितानञ्जननेत्रमैक्षत / / 51 / / 25 . . सखी तदीया तमुवाच वणिनं निबोध साधो तव चेत्कुतूहलम् /