________________ 166 ] [ काव्यषट्कं यतः सतां संनतगात्रि संगतं ___ मनीषिभिः साप्तपदीनमुच्यते // 39 / / अतोऽत्र किंचिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः / अयं जनः प्रष्टुमनास्तपोधने / न चेद्रहस्यं प्रतिवक्तुमर्हसि / / 40 / / कुले प्रसूतिः प्रथमस्य वेधस स्त्रिलोकसौन्दर्यमिवोदितं वपुः / अमृग्य मैश्वर्यसुखं नवं वय __ स्तपः फलं स्याकिमतः परं वद / / 41 / / भवत्यनिष्टादपि नाम दुःसहा न्मनस्विनीनां प्रतिपत्तिरीदृशी / विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि / / 42 / / अलभ्यशोकाभिभवेयमाकृति विमानना सुभ्र कुतः पितुर्गु हे / पराभिमझे न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये // 43 / / किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् / वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते / / 44 / / दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः / अथोपयन्तारमलं समाधिना . न रत्नमन्विष्यति मृग्यते हि तत्ः // 45 / / 25