________________ 158 ] [ काव्यषट्कं रचितं रतिपण्डित त्वया स्वयमङ्गषु ममेदमार्तवम् / ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते // 18 // विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः / तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे // 16 / / 5 अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते / चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि // 20 // मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे। वचनीयमिदं व्यवस्थितं रमण त्वामनुयामि यद्यपि // 21 // क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया / 10 सममेव गतोऽस्यतर्कितां गतिमङ्गन च जीवितेन च // 22 / / ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः / मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् // 23 // क्व नु ते हृदयंगमः सखा कुसुमायोजितकामुको मधुः / न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् / 24 / अथ तैः परिदेविताक्षरह दये दिग्धशरैरिवाहतः / रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः / / 25 / / तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च / स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते // 26 / / इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् / तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बु रम् / / 27 / / अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः / दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने // 28 // अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव / बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः // 29 // 25 गत एव न ते निवर्तते स सखा दीप इवानिलाहतः / अहमस्य दशेव पश्य मामविषयव्यसनेन धूमिताम् / / 30 / /