________________ प्रथमः सर्गः ] [ 143 ताटङ्कपत्रं विरराज तस्याः, शैलात्मजाया: श्रवणद्वयस्थम् / मत्वा भवित्री मदनारिपत्नी, सेवासमेताविव पुष्पवन्तौ // ) प्रवातनीलोत्पलनिविशेष-मधीरविप्रेक्षितमायताक्ष्या। तया गृहीतं नु मृगाङ्गनाभ्य-स्ततो गृहीतं नु मृगाङ्गनाभिः 46 5 तस्याः शलाकाञ्जननिमितेव, कान्तिर्धवोरायतलेखयोर्या / तां वीक्ष्य लीलाचतुरामनङ्गः, स्वचापसौन्दर्यमदं मुमोच 47 लज्जा तिरश्चां वदि चेतसि स्या-दसंशयं पर्वतराजपुत्र्याः। तं केशपाशं प्रसमीक्ष्य कुर्य-लिप्रियत्वं शिथिलं चमर्यः / 48 / सर्वोपमाद्रव्यसमुच्चयेन, यथाप्रदेशं विनिवेशितेन / 10 सा निमिता विश्वसृजा प्रयत्ना-देकस्थसौन्दर्यदिदृक्षयेव / / 4 / / तां नारदः कामचरः कदाचि-त्कन्यां किल प्रेक्ष्य पितुः समीपे। समादिदेशैकवर्धू भवित्री, प्रेम्णा शरीरार्धहरां हरस्य // 50 // गुरुः प्रगल्भेऽपि वयस्यतोऽस्या-स्तस्थौ निवृत्तान्यवराभिलाषः / ऋते कृशानोर्न हि मन्त्रपूत-मर्हन्ति तेजांस्यपराणि हव्यम् 51 15 अयाचितारं न हि देवदेव-मद्रिः सुतां ग्राहयितुं शशाक / अभ्यर्थनाभङ्गभयेन साधु-र्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे / 52 / यदैव पूर्वे जनने शरीरं, सा दक्षरोषात्सुदती ससर्ज (स्वयमुत्ससर्ज) तदाप्रभृत्येव विमुक्तसङ्गः, पतिः पशूनामपरिग्रहोऽभूत् / 53 / स कृत्तिवासास्तपसे य (जि) तात्मा, गङ्गाप्रवाहोक्षितदेवदारु / 20 प्रस्थं हिमाद्रेर्मुगनाभिगन्धि, किंचित्क्वरणत्किनरमध्युवास 54 गणा नमेरुप्रसवावतंसा, भूर्जत्वचः स्पर्शवतीर्दधानाः / मनःशिलाविच्छुरिता निषेदुः, शैलेयनद्धेषु शिलातलेषु / 55 / तुषारसंघातशिलाः खुराप्रैः, समुल्लिखन्दर्पकलः ककुमान् / दृष्टः कथंचिद्गवयैविविग्नै-रसोढसिंहध्वनि रुन्ननाद / / 56 / / 25 तत्राग्निमाधाय समित्समिद्धं, स्वमेव मूर्त्यन्तरमष्टमूर्तिः / . स्वयं विधाता तपसः फलानां, केनापि कामेन तपश्चचार 57