________________ रघुवंशे सप्तदशः सर्गः ] [ 125 प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् / मूर्तिमन्तममन्यन्त विश्वासमनुजीविनः // 31 / / स पुरं पुरुहूतश्रीः कल्पद्रुम निभध्वजाम् / क्रममाणश्चकार द्यां नागेनैरावतौजसा / / 32 / / 5 तस्यैकस्योच्छितं छत्त्रं मूनि तेनामलत्विषा / पूर्वराजवियोगोष्म्यं कृत्स्नस्य जगतो हृतम् / / 33 / / धमादग्ने: शिखाः पश्चादुदयादंशवो रवेः / सोऽतीत्य तेजसां वृत्ति सममेवोत्थितो गुणैः / / 34 / / तं प्रीतिविशदैनॆत्रैरन्वयुः पौरयोषितः / 10 शरत्प्रसन्नोतिभिर्विभावर्य इव ध्रुवम् // 35 / / अयोध्यादेवताश्चैनं प्रशस्तायतनाचिताः / अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतः / / 36 / / यावन्नाश्यायते वेदिरभिषेकजलाप्लुता। तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः / / 37 / / 15 वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः / किं तत्साध्यं यदुभये साधयेयुर्न संगताः // 38 / / स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् / ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः / / 36 / / ततः परमभिव्यक्तसौमनस्यनिवेदितैः / युयोज पाकाभिमुखै त्यान्विज्ञापनाफलैः // 40 // प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः / तस्मिस्तु भूयसीं वृद्धि नभस्ये ता इवाययुः // 41 / / यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् / सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् // 42 // 25 वयोरूपविभूतीनामेकैकं मदकारणम् / तानि तस्मिन्समस्तानि न तस्योत्सिषिचे मनः // 43 //