________________ रघुवंशे पञ्चशः सर्गः ] [106 रामस्य मधूरं वृत्तं गायन्तौ मातुरग्रतः / तद्वियोगव्यथां किंचिच्छिथिलीचऋतुः सुतौ / / 34 // इतरेऽपि रघोवंश्यास्त्रयस्त्रेताग्नितेजसः / तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः // 35 // 5 शत्रुधातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते / मधुराविदिशे सून्वोनिदधे पूर्वजोत्सुकः // 36 / / भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् / मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् // 37 / / वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् / 10 लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम् / / 38 / / स ददर्श सभामध्ये सभासद्भिरुपस्थितम् / रामं सीतापरित्यागादसामान्यपति भुवः / / 39 / / तमभ्यनन्दप्रणतं लवणान्तकमग्रजः / कालनेमिवधात्प्रीतस्तुराषाडिव शाङ्गिणम् / / 40 / / 15 स पृष्टः सर्वतो वार्तमाख्यद्राज्ञे न संततिम् / प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनात् / / 41 / / अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् / अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः / / 42 / / शोचनीयासि वसुधे या त्वं दशरथाच्च्युता। 20 रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता // 43 / / श्रुत्वा तस्य शुचो हेतु गोप्ता जिह्राय राघवः / ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् / / 44 / / स मुहर्त क्षमस्वेति द्विजामाश्वास्य दुःखितम् / यानं सस्मार कौबेरं वैवस्वतजिगीषया / / 45 / / 25 प्रात्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः / उच्चचार पुरस्तस्य गूढरूपा सरस्वती // 46 / /