________________ 92 ] [ काव्यषट्के (1) रघुवंशम् नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा। अमुं युगान्तोचितयोगनिद्रः संहत्य लोकान्पुरुषोऽधिशेते // 6 // पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः / नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते / / 7 / / रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहन क्रियायाः / अस्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्राभरणं बभूव / / 8 / / मुखार्पणेषु प्रकृति प्रगल्भाः स्वयं तरङ्गाधरदानदक्षः / अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धुः / / 6 / / ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् / 10 अमी शिरोभिस्तिमयः सरन्धेरूवं वितन्वन्ति जलप्रवाहान् 10 मातङ्गनकैः सहसोत्पतद्भिभिन्नाद्विधा पश्य समुद्रफेनान् / कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् / / 11 / / वेलानिलाय प्रसृता भुजङ्गा महोमि विस्फूर्जथुनिविशेषाः / सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः // 12 // तवाधरस्पधिषु विद्रुमेषु पर्यस्तमेतत्सहसोमिवेगात् / ऊर्ध्वाकुरप्रोतमुखं कथंचित्क्लेशादपक्रामति शङ्खयूथम् / 13 / प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाभ्रमता घनेन / आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः / 14 / दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला। आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा // 18 // वेलानिल: केतकरेगुभिस्ते संभावयत्याननमायताक्षि / मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् / / 16 / / एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः / प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावजितपूगमालम् // 17 // 25 कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् / एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः // 18 //