________________ रघुवंशे त्रयोदशः सर्गः ] [ 61 यन्ता हरेः सपदि संहृतकामुकज्य मापृच्छय राघवमनुष्ठितदेवकार्यम् / नामाङ्करावणशराङ्कितकेतुयष्टिमूर्ध्वं रथं हरिसहस्रयुजं निनाय / / 103 / / ( वसंत० ) रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः / रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् 104 (हरिणी) // इति महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये रावणवधो नाम द्वादशः सर्गः / / 12 / / // 13 // अथ त्रयोदशः सर्गः // अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः / 15 रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच 1 वैदेहि पश्यामलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् / छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् / / 2 / / गुरोयियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे। तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवधितो नः / / 3 / / गर्भं दधत्यर्कमरीचयोऽस्मद्विवृद्धिमत्राश्नुवते वसूनि / अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन // 4 // तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना। विष्णोरिवास्यानवधारणीयमीक्तया रूपमियत्तया वा // 5 //