________________ रघुवंशे एकादशमः सर्गः ] [ 81 अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात् / वीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि / / 73 / / बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतो समागसौ। धेनुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तु मुद्यतः / / 74 / / 5 क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि / पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः 75 / विद्धि चात्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया। खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तद्रुमम् / / 76 / / तन्मदीयमिदमायुधं ज्यया सङ्गमय्य सशरं विकृप्यताम् / तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुत रसा जितस्त्वया / / 77 / / कातरोऽसि यदि वोद्गताचिषा तजितः परशुधारया मम / ज्यानिघातकठिनाङ्गुलिर्वथा बध्यतामभययाचनाञ्जलिः 78 एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः / तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् / / 79 / / 15 पूर्वजन्मधनुषा समागतः सोऽतिमात्रल घुदर्शनोऽभवत् / केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदश चापलाञ्छितः 80 तेन भूमिनिहितैककोटिं तत्कार्मुकं च बलिनाधिरोपितम् / निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः / / 81 / / तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ। 20 पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव / 82 / तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि / स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभः / / 83 / / न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि / शंस कि गतिमनेन पत्त्रिणा हन्मि लोकमुत ते मखाजितम् / 84 / 25 प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् / गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिक्षु णा।८५।