________________ रुत्पञ्चकात्, अरोदीत् अरुदत् / जिवप् शयने, स्वपिति सुष्वाप / // 19 // स्वपेर्यङ्डे च य्वृत्, चात्किति, सुषुपतुः / / 20 / / अवः स्वपः / निर्दुःसुवे: स्वपः सः षो, न चेद्वोऽन्ते, निःष्वपिति / अन श्वस प्राणने / / 21 / / द्वित्वेऽप्यन्तेऽप्यनितेर्णः, परेस्तु वा / प्राणिति पर्यणिति पर्यनिति अश्वासीत् / जक्ष भक्षणहसनयोः / / 22 / / अन्तो नो लुक् / व्युक्तजक्षपंचकाच्छितोऽवितः, जक्षति // 23 // एषामोर्व्यञ्जनेऽद / व्युक्तजक्षपञ्चकस्यादः शित्यविति, जक्षितः / / 24 / / द्वयुक्तजक्षपञ्चतः शितोऽवितोऽन: पुस्, अजक्षुः / दरिद्रा दुर्गतौ // 25 // इर्दरिद्रः / शित्यविति व्यञ्जने, दरिद्रितः / / 26 // इनश्चातो चाद् व्युक्तजक्षपञ्चकस्य / लुक् शित्यविति, दरिद्रति दरिद्रियात् दरिद्रांचकार औवचनात् ददरिद्रौ / / 27 / / अशित्यस्सन्णकच्णकानटि / दरिद्रो लुक्, दरिद्र्यात् // 28 // दरिद्रोऽद्य तन्यां वा लुक् / अदरिद्रीत् अदरि द्रासीत् / जागृ निद्राक्षये // 29 // व्यञ्जनाद्देलक सञ्च दः। अजागः / / 30 // जागुजिणवि वृद्धिः / जजागार जागरांचकार // 31 / / जागुकिति गुणः। जजागरतुः जागर्यात् / चकासृ दीप्तौ // 32 / / सो धि वा लुक् / चकाधि चकाद्धि अचकात् / / 33 / / सेः स्द्धाश्च रूर्वा /